||Sundarakanda ||

|| Sarga 5||( Only Slokas in Devanagari)

हरिः ओम्

Select Sloka Script in Devanagari / Telugu/ Kannada/ Gujarati /English

सुन्दरकाण्ड्.
अथ पंचम स्सर्गः

ततस्स मध्यंगत मंशुमन्तम् ज्योत्स्नावितानं महदुद्वमन्तम्।
ददर्श धीमान्दिवि भानुमन्तम् गोष्ठे वृषं मत्तमिव भ्रमन्तम्॥1||

लोकस्य पापानि विनाशयन्तम् महोदधिं चापि समेधयन्तम्।
भूतानि सर्वाणि विराजयन्तम् ददर्श शीतांशुमथाभियान्तम्॥2||

या भाति लक्ष्मीर्भुविमन्दरस्था तदा प्रदोषेशु च सागरस्था।
तथैव तोयेषु चपुष्करस्था रराज सा चारुनिशाकरस्था ॥3||

हंसोयथा राजत पञ्जरस्थः सिंहो यथा मंदरकंदरस्थः।
वीरो यथा गर्वित कुञ्जरस्थः चंद्रोऽपि बभ्राज तथांबरस्थः॥4||

स्थितः ककुद्मानिव तीक्ष्ण शृङ्गो महाचलश्वेत इवोच्छशृङ्गः।
हस्तीव जांबूनद बद्धशृङ्गो रराज चंद्रः परिपूर्णशृङ्गः॥5||

विनष्ट शीतांबुतुषार पङ्को महाग्रहग्राह विनष्ठ पङ्कः।
प्रकाश लक्ष्म्याश्रयनिर्मलाङ्को रराज चंद्रो भगवान् शशाङ्कः ॥6||

शिलातलं प्राप्य यथा मृगेन्द्रो महारणं प्राप्य यथा गजेन्द्रः।
राज्यं समासाद्य यथा नरेन्द्रः तथाप्रकाशो विरराज चंद्रः॥7||

प्रकाश चन्द्रोदय नष्ठदोषः प्रवृत्तरक्षः पिसिताशदोषः।
रामाभिरामेरितिचित्तदोषः स्वर्ग प्रकाशो भगवान् प्रदोषः॥8||

तंत्रीस्वनाः कर्णसुखाः प्रवृत्ताः स्वपयंति नार्यः पतिभिः सुवृत्ता।
नक्तांचरा श्चापि तथा प्रवृत्ता निहर्तु मत्यद्भुतरौद्रवृत्ताः॥9||

मत्तप्रमत्तानि समाकुलानि रथाश्वभद्रासन संकुलानि।
वीरश्रियाचापि समाकुलानि ददर्श धीमान् स कपिः कुलानि॥10||

परस्परं चाधिक मक्षिपन्ति भुजांश्च पीना नधिक्षिपन्ति।
मत्त प्रलापा नधि विक्षिपन्ति दृढानि चापानि चविक्षिपन्ति॥11||

रक्षांसि वक्षांसि च विक्षिपन्ति गात्राणी कान्तासु च विक्षिपन्ति ।
रूपाणि चित्राणि च विक्षिपन्ति धृढानि चापानि च विक्षिपन्ति॥12||

ददर्श कान्ताश्च समालभंत्यः तथापराः तत्र पुनः स्वपन्त्यः।
सुरूपवक्त्राश्च तथा हसंत्यः क्रुद्धाः पराश्चापि विनिश्र्वसंत्यः॥13||

महागजैश्चापि तथा नदद्भिः सुपूजितैश्चापि तथा सुसद्भिः।
रराज वीरैश्च विनिश्र्वसद्भिः ह्रदोभुजङ्गै रिव निश्र्वसद्भिः॥14||

बुद्धि प्रधानान् रुचिराभिदानान् संश्रद्धधानान् जगतः प्रधानान्।
नानाविधान् रुचिराभिदानान् ददर्श तस्यां पुरियातुधानान्॥15||

ननन्द दृष्ट्वा स च तान् सुरूपान् नानागुणानात्मगुणानुरूपान् ।
विद्योतमानान् स तदानुरूपान् ददर्श कांश्चिच्चपुनर्विरूपान्॥16||

ततो वरार्हाः सुविशुद्धभावाः तेषां प्रियः तत्र महानुभावाः।
प्रियेषु पानेषु च सक्तभावा ददर्श तारा इव सुप्रभावाः॥17||

श्रियाज्वलंती स्त्रपयोप गुढा यथा विहङ्गाः कुशुमोपगूढाः।
ददर्श काश्चित्प्रमदोपगूढाः यथा विहङ्गाः कुसुमोपगूढाः ॥18||

अन्याः पुनर्हत्म्यतलोपविष्टास्तत्र प्रियाङ्केषु सुखोपविष्टाः ।
भर्तुः प्रिया धर्म परा निविष्टा ददर्श धीमान्मदनाभि विष्टाः॥19||

अपावृताः काञ्चनराजिवर्णाः काश्चित्परार्थ्याः तपनीयवर्णाः।
पुनश्च काश्चिच्चशलक्ष्मवर्णाः कांत प्रहीणा रुचिराङ्गवर्णाः॥20||

ततः प्रियान्प्राप्य मनोभिरामाः सुप्रीतियुक्ताः प्रसमीक्ष्य रामाः।
गृहेषु हृष्टाः परमाभिरामाः हरिप्रवीरः स ददर्श रामाः॥21||

चन्द्रप्रकाशश्च हि वक्त्रमालाः वक्राक्षिपक्ष्माश्च सुनेत्रमालाः।
विभूषणानांच ददर्श मालाः शतह्रदानामिव चारुमालाः॥22||

नत्वेव सीतां परमाभिजाताम् पथिस्थिते राजकुले प्रजाताम्।
लतां प्रपुल्लामिव साधुजाताम् ददर्श तन्वीं मनसाभिजाताम्॥23||

सनातने वर्त्मनि सन्निविष्टाम् रामेक्षणां तां मदनाभिविष्टाम्।
भर्तुर्मनः श्रीमदनुप्रविष्टाम् स्त्रीभ्यो वराभ्यश्च सदा विशिष्टाम्॥24||

उष्णार्दितां सानुसृतास्रकंठीं पुरा वरार्होत्तम निष्ककंठीम्।
सुजातपक्ष्मामभिरक्तकंठीम् वने प्रवृत्तामिव नीलकंठीम्॥25||

अव्यक्त रेखामिव चंद्र रेखाम् पांसुप्रदिग्धा मिव हेमरेखाम्।
क्षतप्ररूढा मिव बाणरेखाम् वायुप्रभिन्नामिव मेघ रेखाम्॥26||

सीतामपश्यन् मनुजेश्वरस्य रामस्य पत्नीं वदतां वरस्य।
बभूव दुःखाभिहतः शिरस्य प्लवङ्गमो मंद इवा चिरस्य ॥27||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुन्दरकाण्डे पंचमस्सर्गः॥

|| Om tat sat ||